Athoya udara lakshana : A.Hridaya
Sloka
सर्वं त्वतोयमरुणमशोफं नातिभारिकम्||९||
गवाक्षितं सिराजालैः सदा गुडगुडायते|
नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति||१०||
मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनाः|
सशब्दो निश्चरेद्वायुर्विड्बद्धा मूत्रमल्पकम्||११||
नातिमन्दोऽनलो लौल्पं न च स्याद्विरसं मुखम्|
गवाक्षितं सिराजालैः सदा गुडगुडायते|
नाभिमन्त्रं च विष्टभ्य वेगं कृत्वा प्रणश्यति||१०||
मारुतो हृत्कटीनाभिपायुवङ्क्षणवेदनाः|
सशब्दो निश्चरेद्वायुर्विड्बद्धा मूत्रमल्पकम्||११||
नातिमन्दोऽनलो लौल्पं न च स्याद्विरसं मुखम्|
सर्वाङ्गसुन्दरी व्याख्या
सर्वमुदरमतोयं-जलोदरतामप्राप्तं, वर्णतोऽरुणं, तथाऽशोफं-शोफेनानाक्रान्तं, तथा नातिभारिकं-नातिशयेन गुरु, तथा सिराजालैः-सिरासमूहैर्जालाकृतिभिः, गवाक्षितं-निरन्तरमाक्रान्तं, सदा-सर्वकालं, गुडगुडायते-गुडगुड ईदृशमव्यक्तं शब्दमाचरति| तथा, मारुतो नाभिं विष्टभ्य-स्तब्धतां नीत्वा, तथाऽन्त्रं च विष्टभ्य, वेगं कृत्वा-हृत्कटीनाभिपायुवङ्क्षणवेदना इत्येवंरूपमात्मीयं संरम्भं प्रदर्श्यानन्तरं, प्रणश्यति| तथा, सशब्दो वायुरन्तर्निश्चरेत्-निर्याति| तथा विड्बद्धा, तथा मूत्रमतिशयेनाल्पं स्यात्| तथा किञ्चिन्मन्दोऽग्निः, तथा लौल्यं-गृद्धिः, न च विरसं मुखं स्यात्| यत्र तदतोयसम्भवं वेद्यम्| अस्माच्च विपरीतलक्षणं सामर्थ्यात् सतोयम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः