Baddha udara lakshana : A.Hridaya
(Baddhodara lakshana)
(Baddhodara lakshana)
Sloka
पक्ष्मवालैः सहान्नेन भुक्तैर्बद्धायने गुदे||२८||
दुर्नामभिरुदावतैरन्यैर्वाऽन्त्रोपलोपिभिः|
वर्चःपित्तकफान् रुद्ध्वा करोति कुपितोऽनिलः||२९||
अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः|
कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक्||३०||
मलसङ्गोऽरुचिश्च्छर्दिरुदरं मूढमारुतम्|
स्थिरं नीलारुणसिराराजिनद्धमराजि वा||३१||
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते|
दुर्नामभिरुदावतैरन्यैर्वाऽन्त्रोपलोपिभिः|
वर्चःपित्तकफान् रुद्ध्वा करोति कुपितोऽनिलः||२९||
अपानो जठरं तेन स्युर्दाहज्वरतृट्क्षवाः|
कासश्वासोरुसदनं शिरोहृन्नाभिपायुरुक्||३०||
मलसङ्गोऽरुचिश्च्छर्दिरुदरं मूढमारुतम्|
स्थिरं नीलारुणसिराराजिनद्धमराजि वा||३१||
नाभेरुपरि च प्रायो गोपुच्छाकृति जायते|
सर्वाङ्गसुन्दरी व्याख्या
पक्ष्माणि च वालाश्च पक्ष्मवालाः, तैरन्नेन सह भुक्तैर्बद्धायने गुदे सत्यपानो वायुर्विगुणः-कुपितो, जठरं करोति| बद्धमयनं-द्वारं पुरीषानिलवाहि, यस्य तदेवंविधे गुदे| तथा दुर्नामभिर्गुदे बद्धायने, तथोदावर्तैर्बद्धायने, तथाऽन्यैर्वाऽन्त्रोपलेपिभिः-उपदेहिभिर्दध्योदनमाशोमादिभिः, गुदे बद्धायने, अपानो जठरं करोति| किं कृत्वा ? वर्चःपित्तकफान् रुद्ध्वा-आवृत्य, तद्बद्धोदरमुच्यते| तेन-बद्धोदरेण, दाहज्वरतृट्क्षवाः स्युः| तथा, कासश्वासावूरुसदनं शिरोहुन्नाभिपायुरुक् स्यात्| तथा, मलानां-मूत्रपुरीषादीनां, सङ्गः-अप्रवर्तनम्| अरुचिस्तथा छर्दिः स्यात्| तथोदरं मूढमारुतं भवेत्| मूढो-बहिरनिःसरणरूपो, मारुतो यस्मिंस्तदेवम्| मूढमारुतत्वस्य सामान्यलक्षणेनैव गृहीतत्वात्पुनर्ग्रहणमतिशयार्थम्| तथा, स्थिरं-अचलम्| तथा, नीलारुणसिराराजिभिर्नद्धं-व्याप्तम्, अथवाऽराजि स्यात्| तच्चोदरं प्रायो नाभेरुपरिष्टाद्गोपुच्छाकृति जायते| यथायथोर्ध्वं तथातथा सूक्ष्ममित्यर्थः| अनेनास्य संस्थानमुक्तम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः