Chidra udara lakshana : A.Hridaya
(Chidrodara lakshana)
(Chidrodara lakshana)
Sloka
अस्थ्यादिशल्यैः सान्नैश्चद्भुक्तैरत्यशनेन वा||३२||
भिद्यते पच्यते वाऽन्त्रं तच्छिद्रैश्च स्रवन्बहिः|
आम एव गुदादेति ततोऽल्पाल्पं सविड्रसः||३३||
तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः|
शेषश्चापूर्य जठरं जठरं घोरमावहेत्||३४||
वर्द्धयेत्तदधो नाभेराशु चैति जलात्मताम्|
उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृड्भ्रमैः||३५||
छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे|
भिद्यते पच्यते वाऽन्त्रं तच्छिद्रैश्च स्रवन्बहिः|
आम एव गुदादेति ततोऽल्पाल्पं सविड्रसः||३३||
तुल्यः कुणपगन्धेन पिच्छिलः पीतलोहितः|
शेषश्चापूर्य जठरं जठरं घोरमावहेत्||३४||
वर्द्धयेत्तदधो नाभेराशु चैति जलात्मताम्|
उद्रिक्तदोषरूपं च व्याप्तं च श्वासतृड्भ्रमैः||३५||
छिद्रोदरमिदं प्राहुः परिस्रावीति चापरे|
सर्वाङ्गसुन्दरी व्याख्या
अस्थितृणकण्टकपाषाणधातुशृङ्गदार्वादिशल्यैः सान्नैः-सहभोजनेन भुक्तैः| अथवा, अत्यशनेन-अतिमात्रभोजनेन, यदाऽन्त्रं भिद्यते-सच्छिद्रं सम्पद्यते, अथवा पच्यते-पाकं याति| तच्छिद्रैश्च-अन्त्रच्छिद्रैर्भेदोत्पन्नैः, पाकतो वा, बहिराम एव-अपरिपक्व एव, सविड्रसः स्रवन्नल्पाल्पमेव गुदादेति-आयाति| तुल्यः-सदृशः, कुणपगन्धेन-शवगन्धेन| तथा पिच्छिलः, पीतलोहितश्च वर्णेन| शेषश्च रसो-यो गुदान्नागच्छति, स जठरमापूर्य-पूरयित्वा, घोरं-कष्टतरं, जठराख्यं व्याधिं कुर्यात्| तत्-उदरं, अधो नाभेर्वर्धयेत्-वृद्धिं गच्छेत्| वर्धिश्चुरादिः| तथा, आशु-शीघ्रमेव, जलात्मतां-जलोदरत्वमेति, उद्रिक्तदोषरूपं च| उद्रिक्तं-अधिकं, दोषाणां-वातपित्तकफानां, रूपं-आकृतिः, यस्य तदेवम्| तथा, श्वासतृड्भ्रमैर्व्याप्तमिदमुदरं छिद्रोदरं प्राहुराचार्याः| अपरे त्वाचार्याः परिस्रावीत्याहुः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः