Kapha udara lakshana : A.Hridaya
(Kaphodara lakshana)
(Kaphodara lakshana)
Sloka
श्लेष्मोदरेऽङ्गसदनं स्वापः श्वयथुगौरवम्|
निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वगादिता||१८||
उदरं स्तिमितं श्लक्ष्णं शुक्लराजीततं महत्|
चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम्||१९||
निद्रोत्क्लेशारुचिश्वासकासशुक्लत्वगादिता||१८||
उदरं स्तिमितं श्लक्ष्णं शुक्लराजीततं महत्|
चिराभिवृद्धि कठिनं शीतस्पर्शं गुरु स्थिरम्||१९||
सर्वाङ्गसुन्दरी व्याख्या
श्लेष्मोदरेऽङ्गसादादयः स्युः| तथोदरं स्तिमितं-निश्चलम्, तथा श्लक्ष्णं-कोमलस्पर्शम्, तथा शुक्लराजीभिस्ततं-व्याप्तम्, तथा बृहत्, तथा चिराभिवृद्धि कठिनं च तथा शीतस्पर्शम्, तथा गुरु, तथा स्थिरं-न तु चलम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः