Pitta udara lakshana : A.Hridaya
(Pittodara lakshana)

Sloka

पित्तोदरे ज्वरो मूर्च्छा दाहस्तृट् कटुकास्यता|
भ्रमोऽतिसारः पीतत्वं त्वगादावुदरं हरित्||१६||
पीतताम्रसिरानद्धं सस्वेदं सोश्म दह्यते|
धूमायति मृदुस्पर्शं क्षिप्रपाकं प्रदूयते||१७||

सर्वाङ्गसुन्दरी व्याख्या

पित्तोदरे ज्वरादयः स्युः| तथा, त्वगादौ पीतत्वं भवति| जठरं हरितवर्णं तथा पीतताम्राभिः सिराभिर्नद्धं-युक्तं, सस्वेदं शोष्म च स्यात्, दह्यते-तप्यते च| तथा, धूमायति| तथा, मृदुः-अकठिनः, स्पर्शो यस्य तदेवम्| तथा, क्षिप्रपाकं स्यात्| प्रदूयते-उपतप्यते च|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः