Pleeha udara doshanubandha : A.Hridaya
(Pleehodara doshanubandha)
(Pleehodara doshanubandha)
Sloka
उदावर्तरुजानाहैर्मोहतृड्दहनज्वरैः|
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्||२७||
गौरवारुचिकाठिन्यैर्विद्यात्तत्र मलान् क्रमात्||२७||
सर्वाङ्गसुन्दरी व्याख्या
तत्र-प्लीहोदरे, पृथग्लक्षणलक्षितान्मलान्-वातादीन्, क्रमेणोदावर्तादिना विद्यात्| तत्रोदावर्तरुजानाहैर्वातं विद्यात्| मोहतृड्दहनज्वरैः पित्तं विद्यात्| गौरवारुचिकाठिन्यैः कफं विद्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः