Pleeha udara lakshana : A.Hridaya
(Pleehodara lakshana)
(Pleehodara lakshana)
Sloka
अत्याशितस्य सङ्क्षोभाद्यानयानादिचेष्टितैः||२२||
अतिव्यवायकर्माध्ववमनव्याधिकर्शनैः|
वामपार्श्वाश्रितः प्लीहाच्युतः स्थानाद्विवर्द्धते||२३||
शोणितं वा रसादिभ्यो विवृद्धं तं विवर्द्धयेत्|
सोऽष्ठीलेवातिकठिनः प्राक् ततः कूर्मपृष्ठवत्||२४||
क्रमेण वर्द्धमानश्च कुक्षावुदरमावहेत्|
श्वासकासपिपासास्यवैरस्याध्मानरुग्ज्वरैः||२५||
पाण्डुत्वमूर्च्छाछर्दीभिर्दाहमोहैश्च संयुतम्|
अरुणाभं विवर्णं वा नीलहारिद्रराजिमत्||२६||

सर्वाङ्गसुन्दरी व्याख्या
अतितृप्तस्य नरस्य यानगमनादिचेष्टितैर्यः सङ्क्षोभस्तस्मात्, तथाऽतिव्यवायादिभिः कर्शनैः प्लीहा स्थानात्-स्वाशयात्, च्युतो विवर्धते-विशेषेण वृद्धिं गच्छति| किम्भूतः प्लीहा ? वामपार्श्वाश्रितः| अथवा रसादिभ्यो धातुभ्यः शोणितं विवृद्धं-वृद्धिहेतुभिरधिकं कृत्वा वृद्धिं प्राप्तं, अनन्तरं तं-प्लीहानं स्वस्थानाच्च्युतमच्युतं वा, विशेषेण वर्धयेत्-स्वप्रमाणादाधिक्यं जनयेत्| सः-प्लीहा, अष्ठीलेवातिकठिनः प्राग्भूत्वा, ततः-अनन्तरं, कच्छपपृष्ठाकृतिः क्रमेण-न सहसैव, वर्धमानः-आधिक्यं गच्छन्, कुक्षौ-स्वीये स्थाने, उदरं विदध्यात्| कीदृशम् ? श्वासादिभिर्दाहमोहपर्यन्तैः संयुतम्| तथा, अरुणाभं-अरुणवर्णम्, अथवा विवर्णं-अनिश्चितवर्णम्, तथा नीलहारिद्रराजिमत् एवंविधा राजयो विद्यन्ते यस्मिंस्तदेवम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः