Sannipatha udara lakshana : A.Hridaya
(Sannipathodara lakshana)
(Sannipathodara lakshana)
Sloka
त्रिदोषकोपनैस्तैस्तैः स्त्रीदत्तैश्च रजोमलैः|
गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः||२०||
कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्च्छाभ्रमान्वितम्|
कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्||२१||
बाधते तच्च सुतरां शीतवाताभ्रदर्शने|
गरदूषीविषाद्यैश्च सरक्ताः सञ्चिता मलाः||२०||
कोष्ठं प्राप्य विकुर्वाणाः शोषमूर्च्छाभ्रमान्वितम्|
कुर्युस्त्रिलिङ्गमुदरं शीघ्रपाकं सुदारुणम्||२१||
बाधते तच्च सुतरां शीतवाताभ्रदर्शने|
सर्वाङ्गसुन्दरी व्याख्या
मलाः-वातादयः, सरक्ताः सञ्चितास्त्रिलिङ्गं-त्रिदोषलक्षणं, तथा शोषादियुतं, तथा शीघ्रपाकं, तथा सुदारुणमुदरं कुर्युः| किम्भूतैः सञ्चिताः ? त्रिदोषकोपनैः-सङ्कीर्णादिभोजनैः, तैस्तैः-सर्वरोगनिदानोक्तैः, तथा स्त्रिया दत्तै रजोमलैः-कार्मणापरपर्यायैर्वशीकरणैः, तथा गरेण दूषीविषाद्यैश्च| आदिशब्देन विरुद्धाभ्यवहारादेर्ग्रहणम्| अनेनास्य हेतुविशेषकथनम्| कीदृशा दोषाः ? कोष्ठं प्राप्य-आश्रित्य, विकुर्वाणाः-विक्रियां याताः| तच्च-जठरं, सुतरां शीतवाताभ्रदर्शने बाधते| इत्यनेनास्य विशेषलक्षणं कथितम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः