Udaka udara lakshana : A.Hridaya
(Udakodara lakshana)

Sloka

प्रवृत्तस्नेहपानादेः सहसाऽऽमाम्बुपायिनः||३६||
अत्यम्बुपानान्मन्दाग्नेः क्षीणस्यातिकृशस्य वा|
रुद्ध्वाऽम्बुमार्गाननिलः कफश्च जलमूर्छितः||३७||
वर्धयेतां तदेवाम्बु तत्स्थानादुदराश्रितौ|
ततः स्यादुदरं तृष्णागुदस्रुतिरुजान्वितम्||३८||
कासश्वासारुचियुतं नानावर्णसिराततम्|
तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु||३९||
दकोदरं महत्स्निग्धं स्थिरमावृत्तनाभि तत्|

सर्वाङ्गसुन्दरी व्याख्या

प्रवृत्तं-आरब्धं, स्नेहपानादि येन स प्रवृत्तस्नेहपानादिः| आदिग्रहणाद्वमनादिकं कर्म पञ्चविधं गृह्यते| तस्य तथाभूतस्य सहसाऽऽमाम्बुपायिनः-सहसैवापक्वपानीयपस्य, तथा मन्दाग्नेः-नष्टवह्नेः, तथा क्षीणस्य-विशिष्टव्याध्याक्रान्ततया धात्वपचयवतः, तथाऽतिकृशस्य-अनशनादिना क्षीणमेदोमांसस्य, एवंविधस्य पुरुषस्यात्यम्बुपानादम्बुमार्गान्-तोयवाहिनि स्रोतांसि, रुद्ध्वाऽनिलः कफश्च| किम्भूतः ? जलमूर्छितः-तोयमिश्रितः| तावुभौ वातकफौ जलमूर्छितावुदराश्रितौ तदेवाम्बु तत्स्थानात्-उदकस्थानात् क्लेमतो, वर्द्धयेताम्| ततः-अनन्तरं, उदरं स्यात्| तृष्णादियुतं, तथा कासादियुतं, तथा नानावर्णाभिः-अनेकवर्णाभिः सिराभिः, ततं-व्याप्तम्| तोयेत्यादि| शब्दस्य प्रक्षोभः-संरम्भः शब्दप्रक्षोभः, वेपथुः-कम्पः, स्पर्शश्च शब्दप्रक्षोभश्च वेपथुश्च त एवम्, तोयेन पूर्णा तोयपूर्णा, सा चासौ दृतिश्च तोयपूर्णदृतिः, तोयपूर्णदृतिवत् स्पर्शशब्दप्रक्षोभवेपथवो यस्मिन्नुदरे तत्तोयपूर्णदृतिस्पर्शशब्दप्रक्षोभवेपथु, दकोदरं-जलोदरं, स्यात्| तच्च महत्-अन्येभ्य उदरेभ्यो विस्तीर्णम्, तथा स्निग्धं, तथा स्थिरं-अचलम्, आवृत्तनाभि तत्, आसमन्ताद्वृत्ता-वर्तुला, नाभिर्यस्य तदेवम्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः