Udara samanya lakshana : A.Hridaya

Sloka

------------------------जठरेषु तु|
सर्वेषु तन्द्रा सदनं मलसङ्गोऽल्पवह्निता||८||
दाहः श्वयथुराध्मानमन्ते सलिलसम्भवः|

सर्वाङ्गसुन्दरी व्याख्या

जठरेषु-जठराख्येषु, सर्वेषु तु रोगेषु तन्द्रा-आलस्यं, तथा सदनं देहस्य भवति| तथा, मलस्य सङ्गः-पुरीषस्याप्रवृत्तिः| तथा, अल्पाग्नित्वम्| तथा, दाहः श्वयथुराध्मानं च| अन्ते-अवसाने, सलिलसम्भवः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः