Udara nidana: A.Hridaya

Sloka

रोगाः सर्वेऽपि मन्देऽग्नौ सुतरामुदराणि तु|
अजीर्णान्मलिनैश्चान्नैर्जायन्ते मलसञ्चयात्||१||

सर्वाङ्गसुन्दरी व्याख्या

सर्वेऽपि-ज्वरातीसारादयो, रोगा मन्देऽग्नौ सति जायन्ते, अतिशयेन पुनरुदराणि| अन्येभ्यश्चोदरहेतुभ्यो मन्दाग्नित्वं प्रधानमुदराणां कारणमिति मन्देग्नावित्यनेन प्रागुद्दिष्टेन द्योतयति| अजीर्णादित्यादि| चतुर्विधादजीर्णात्-आमविष्टब्धविदग्धरसशेषाख्यात्, तथा मलिनैश्चान्नैः-पूतिपर्युषितसङ्कीर्णादिलक्षणैः, तथा मलसञ्चयात्-चिरकालसम्भृताद्दोषाणां प्रचयात्, उदराणि जायन्ते|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः