Udara purvarupa : A.Hridaya

Sloka

----------------भाविनस्तस्य लक्षणम्|
क्षुन्नाशोऽन्नं चिरात्सर्वं सविदाहं च पच्यते||५||
जीर्णाजीर्णं न जानाति सौहित्यं सहते न च|
क्षीयते बलतः शश्वच्छ्वसित्यल्पेऽपि चेष्टिते||६||
वृद्धिर्विशोऽप्रवृत्तिश्च किञ्चिच्छोफश्च पादयोः|
रुग्बस्तिसन्धौ ततता लघ्वल्पाभोजनैरपि||७||
राजीजन्म वलीनाशो जठरे-----------------|

सर्वाङ्गसुन्दरी व्याख्या

तस्य भाविनो-भविष्यतो, लक्षणं क्षुन्नाशादिकं स्यात्| तथा, बस्तिसन्धौ रुक्-शूलम्| तथा, लगुभोजनैरल्पभोजनैरभोजनैरपि च बस्तिसन्धौ ततता-विस्तीर्णता, आध्माततेत्यर्थः| तथा, राजीनां जन्म-सम्भवो, वलीनां च नाशो जठरे स्यात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः