Udara sadhyasadhyata: A.Hridaya
(Udakodara lakshana)

Sloka

वातपित्तकफप्लीहसन्निपातोदकोदरम्||४४||
कृच्छ्रं यथोत्तरम् पक्षात्परं प्रायोऽपरे हतः|
सर्वं च जातसलिलं रिष्टोक्तोपद्रवान्वितम्||४५||

सर्वाङ्गसुन्दरी व्याख्या

वाताद्युद्भवमुदरं यथोत्तरं कृच्छ्रम्| तेन वातोदरात् पित्तोदरात् पित्तोदरं यावदुदकोदरमत्यर्थं कृच्छ्रम्, कृच्छ्रसाध्यत्वात्| पाठापेक्षया ये द्वे अपरे-बद्धक्षतोदरे, ते प्रायः पक्षात्परं-अनन्तरं, हतो-मारयतः| प्रायोग्रहणात्-कदाचिन्नियतायुष्युत्पन्ने नैव मारयतः| किलोपेक्षया सर्वेषूदरेष्वन्ते सलिलसम्भव इत्युक्तम्| सर्वं च जठरं जातोदकं यद्वातादिसमुत्थं कृच्छ्रमुक्तं तदपि हन्त्येव| अत्रापि प्रायोग्रहणमनुवर्तनीयम्| कदाचिज्जातोदकमपि न मारयति, अपि तु यापयत्येव| तथा, रिष्टोक्तोपद्रवान्वितं-रिष्टाध्यायोक्तैरुपद्रवैर्युक्तं "जठरं हन्ति दुर्बलम्| शूनाक्षं कुटिलोपस्थं" (हृ. शा. अ. ५|९०) इत्यादिभिश्च, तदपि हन्ति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः