Udara samprapti: A.Hridaya
Sloka
ऊर्ध्वाधो धातवो रुद्ध्वा वाहिनीरम्बुवाहिनीः|
प्राणाग्न्यपानान् सन्दूष्य कुर्यस्त्वङ्मांससन्धिगाः||२||
आध्माप्य कुक्षिमुदरम्---------------------|
प्राणाग्न्यपानान् सन्दूष्य कुर्यस्त्वङ्मांससन्धिगाः||२||
आध्माप्य कुक्षिमुदरम्---------------------|
सर्वाङ्गसुन्दरी व्याख्या
अम्बुवाहिनीर्वाहिनीः-जलवाहिनी स्रोतांसि, ऊर्ध्वाधो रुद्ध्वा धातवो-वातादयः, उदरं कुर्युः| कीदृशाः ? त्वक् च मांसं च त्वङ्मांसे, तयोः सन्धिः-अन्तरं, तत्र गच्छन्तीति त्वङ्मांससन्धिगाः, तत्रस्था इत्यर्थः| किं कृत्वा ? कुक्षिमाध्माप्य-आनह्य| तथा, प्राणश्चाग्निश्चापानश्च तान् प्राणाग्न्यपानान् सन्दूष्यदूषयित्वा| प्रकृत्या मन्दोऽग्निः पुनर्वातादिभिः सन्दूषितो जठरं करोतीत्यर्थः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः