Upekshaya udara samprapthi: A.Hridaya
(Udakodara lakshana)

Sloka

उपेक्षया च सर्वेषु दोषाः स्वस्थानतश्च्युताः||४०||
पाकाद्द्रवा द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि|
स्वदेश्च बाह्यस्रोतःसु विहतस्तिर्यगास्थितः||४१||
तदेवोदकमाप्याय्य पिच्छां कुर्यात्तदा भवेत्|
गुरूदरं स्थिरं वृत्तमाहतं च न शब्दवत्||४२||
मृदु व्यपेतराजीकं नाभ्यां स्पृष्टं च सर्पति|
तदनूदकजन्मास्मिन्कुक्षिवृद्धिस्ततोऽधिकम्||४३||
सिरान्तर्धानमुदकजठरोक्तं च लक्षणम्|

सर्वाङ्गसुन्दरी व्याख्या

उपेक्षया-अचिकित्सनात्, सर्वेषूदरेषु, दोषाः-वातपित्तकफाः, स्वस्थानतः-आत्मीयात् स्थानात्, च्युताः-स्थानान्तरं गताः, तथा पाकाद्धेतोस्ते दोषा द्रवा अधिकं द्रवीकुर्युः सन्धिस्रोतोमुखान्यपि| अन्धयश्च स्रोतोमुखानि च सन्धिस्रोतोमुखानि-द्वाराणि| न केवलं स्वयं दोषा द्रवत्वं गताः, यावत्सन्धिस्रोतोमुखान्यपि द्रवीकुर्युः, इत्यपिशब्दार्थः| स्वेदश्च बाह्यस्रोतःसु संवृतेषु विहतो-निरुद्धः, तिर्यगास्थितः-तिर्यक् प्रवृत्तश्च, तदेवोदकं प्राक् कुक्षौ वृद्धिं गतमाप्याय्य-वृद्धिं गमयित्वा, पिच्छां कुर्यात्| तदा भवेद्गुरूदरं स्थिरं-अचलं, वृत्तं-वर्तुलं, च| तथाऽऽहतं च पाण्यादिना न शब्दवत्-नशब्दयुक्तम्, तथा मृदु-अकठिनम्, तथा व्यपेता राज्यो यस्मात् तद्व्यपेतराजीकं स्यात्| नाभ्यां च स्पृष्टं सत् सर्पति-प्रसारि सम्पद्यते| तदनु-ततोऽनन्तरम्, अस्मिन्-उदराख्ये व्याधौ, उदकजन्म-जलसम्भवः| ततः-अनन्तरं, अधिकं कृत्वा कुक्षिवृद्धिर्भवेत्| तथा, सिरान्तर्धानं-सिराणामदर्शनम्| किमेतदेव लक्षणम्? नेत्याह-उदकजठरोक्तं च लक्षणम्| न केवलं यदधुनैवोक्तं लक्षणम्, यावज्जलोदरोक्तं चेति चशब्दस्यार्थः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः