Vata udara lakshana : A.Hridaya
(Vatodara lakshana)
(Vatodara lakshana)
Sloka
तत्र वातोदरे शोफः पाणिपान्मुष्ककुक्षिषु||१२||
कुक्षिपार्श्वोदरकटीपृष्ठरुक् पर्वभेदनम्|
शुष्ककासोऽङ्गमर्दोऽधोगुरुता मलसङ्ग्रहः||१३||
श्यावारुणत्वगादित्वमकस्माद्वृद्धिह्लासवत्|
सतोदभेदमुदरं तनुकृष्णसिराततम्||१४||
आध्मातदृतिवच्छब्दमाहतं प्रकरोति च|
वायुश्चात्र सरुक्शब्दो विचरेत्सर्वतोगतिः||१५||

सर्वाङ्गसुन्दरी व्याख्या
तत्र-तेषूदरेषु मध्ये, वातोदरे शोफः पाण्यादिषु, तथा कुक्ष्यादिषु रुक् पर्वभेदनं तथा शुष्ककासादयः स्युः| अकस्मात्-निमित्तं विना, उदरं वृद्धिह्रासयुतं स्यात्, तथा सतोदभेदं, तथा तनुकृष्णसिराभिस्ततं-व्याप्तम्, आहतं च तदुदरमाध्मातभस्त्रेव शब्दं करोति| अत्र च-वातोदरे, वायुः सरुक्शब्दः सर्वतोगतिश्च सन् विचरेत्-भ्रमति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः