Yakrit udara lakshana : A.Hridaya
(Yakritodara lakshana)

Sloka

प्लीहवद्दक्षिणात्पार्श्वात् कुर्याद्यकृदपि च्युतम्|

सर्वाङ्गसुन्दरी व्याख्या

यथा पूर्वोक्तैर्हेतुभिः प्लीहा वामपार्श्वाच्च्युतो विवर्धते-विवृद्धो भूत्वाऽनन्तरमुदरमावहेत्, तद्वद्यकृदपि दक्षिणात् पार्श्वाच्च्युतं सद्वर्धते-वृद्धं सदुदरं कुरुते| अथवा शोणितं स्वहेतुतो विवृद्धं यकृद्विवर्धयेत्, तच्च विवृद्धमुदरमावहेत्| इति प्लीहोदरयकृदुदरयोः सादृश्यम्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - १२. उदरनिदानाध्यायः