Ama-pakwa-vidagdha vidradi lakshana: A.Hridaya
Sloka
आमपक्वविदग्धत्वं तेषां शोफवदादिशेत्||१६||
सर्वाङ्गसुन्दरी व्याख्या
तेषां-विद्रधीनां, आमत्वं पक्वत्वं विदग्धत्वं-पाकातिक्रान्तत्वं, शोफवदादिशेत्| शोफानामिव शोफवत्, षष्ठ्यन्ताद्वतिः| तत्र शोफस्य शस्त्रकर्मविधौ (हृ. सू. अ. २९|२) - "शोफोऽल्पोऽल्पोष्मरुक्" इत्यादिना ग्रन्थेनामादिलक्षणमुक्तम्, तथैव विद्रधिषु बोध्यम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः