Anaha lakshana: A.Hridaya
Sloka
साटोपमत्युग्ररुजमाध्मानमुदरे भृशम्|
ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते||६०||
ऊर्ध्वाधोवातरोधेन तमानाहं प्रचक्षते||६०||
सर्वाङ्गसुन्दरी व्याख्या
ऊर्ध्वाधोवातरोधेन कारणभूतेनोदरे भृशमाध्मानं यत् तमानाहं प्रचक्षते, मुनयः इति शेषः| किम्भूतम् ? साटोपं-सशब्दम्, तथाऽत्युग्रा रुक्-पीडा, यत्र तदेवम्| सुश्रुतेन प्रत्याध्मानस्यापि लक्षणमभ्यधायि (नि. अ. १|८९) - "विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम्| प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम्||" इति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः