Antra vriddhi lakshana: A.Hridaya
Sloka
वातकोपिभिराहारैः शीततोयावगाहनैः|
धारणेरणभाराध्वविषमाङ्गप्रवर्तनैः||२८||
क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा|
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्||२९||
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा|
उपेक्ष्यमाणस्य च मुष्कवृद्धि-
माध्मानरुक्स्तम्भवतीं स वायुः|
प्रपीडितोऽन्तः स्वनवान् प्रयाति
प्रध्मापयन्नेति पुनश्च मुक्तः||३०||
अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः||३१||
धारणेरणभाराध्वविषमाङ्गप्रवर्तनैः||२८||
क्षोभणैः क्षुभितोऽन्यैश्च क्षुद्रान्त्रावयवं यदा|
पवनो विगुणीकृत्य स्वनिवेशादधो नयेत्||२९||
कुर्याद्वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं तदा|
उपेक्ष्यमाणस्य च मुष्कवृद्धि-
माध्मानरुक्स्तम्भवतीं स वायुः|
प्रपीडितोऽन्तः स्वनवान् प्रयाति
प्रध्मापयन्नेति पुनश्च मुक्तः||३०||
अन्त्रवृद्धिरसाध्योऽयं वातवृद्धिसमाकृतिः||३१||
सर्वाङ्गसुन्दरी व्याख्या
वातकोप्याहारादिभिरन्यैश्च पूर्वोक्तैः क्षोभणैः-कोपनैः, क्षुभितः-कुपितो, यदाऽल्पस्यान्त्रस्यावयवः-एकदेशः, तं स्वनिवेशात्-स्वस्थानात्, विगुणीकृत्याधो नयेत् तदा पवनो वङ्क्षणसन्धिस्थो ग्रन्थ्याभं श्वयथुं कुर्यात्| उपेक्ष्यमाणस्येत्यादि| उपेक्ष्यमाणस्य-अचिकित्स्यमानस्य वृद्ध्याख्यगदस्य, स पूर्वनिर्दिष्टो वायुर्मुष्कयोर्वृद्धिं-वर्द्धनं, कुर्यात्| किम्भूताम् ? आध्मानरुक्ऽऽस्तम्भवतीम्| तथा, प्रपीडितो बाह्यादन्तः स्वनवान्-सशब्दः, प्रयाति| मुक्तः-अप्रपीडितः, प्रध्मापयन् पुनरेति-आगच्छति| उपजातिवृत्तम्| अयं-एवंलक्षणः, अन्त्रवृद्धिरसाध्यो न पुनः सर्व एवेत्ययंशब्देन द्योतयति| किमस्य लक्षणम् ? इत्याह-वातवृद्धिसमाकृतिः,-"वातपूर्णदृतिस्पर्श" (श्लो. २४) इत्यादिलक्षणलक्षितः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः