Ashtila - Prathyashtila lakshana: A.Hridaya
Sloka
घनोऽष्ठीलोपमो ग्रन्थिरष्ठीलोर्ध्वं समुन्नतः|
आनाहलिङ्गस्तिर्यक्तु प्रत्यष्ठीला तदाकृतिः||६१||
आनाहलिङ्गस्तिर्यक्तु प्रत्यष्ठीला तदाकृतिः||६१||
सर्वाङ्गसुन्दरी व्याख्या
[ घनो- ]निबिडो, यो ग्रन्थिरष्ठीलयोपमीयते तथोर्ध्वं समुन्नतः-नाधस्तात्, स ग्रन्थिरानाहलिङ्गोऽष्ठीला भण्यते| तिर्यक् च (पुनः) यो ग्रन्थिः-नोर्ध्वं समुन्नतः, तदाकृतिः-अष्ठीलासदृशः, स ग्रन्थिः प्रत्यष्ठीलोच्यते|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः