Bahya - Abhyantara gulma lakshana: A.Hridaya
Sloka
गुल्मेऽन्तराश्रये बस्तिकुक्षिहृत्प्लीहवेदनाः|
अग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम्||५८||
अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक्|
वैवर्ण्यमवकाशस्य बहिरुन्नतताऽधिकम्||५९||
अग्निवर्णबलभ्रंशो वेगानां चाप्रवर्तनम्||५८||
अतो विपर्ययो बाह्ये कोष्ठाङ्गेषु तु नातिरुक्|
वैवर्ण्यमवकाशस्य बहिरुन्नतताऽधिकम्||५९||
सर्वाङ्गसुन्दरी व्याख्या
गुल्मेऽन्तराश्रये-आभ्यन्तरे, बस्त्यादिवेदनादयः स्युः| तथा, अग्न्यादिभ्रंशो-विनाशो, वेगानां च प्रवर्तनं न भवति| अतः-अस्माद्बाह्ये, विपर्ययो-वैपरीत्यम्| यथा,-अग्न्यादिभ्रंशाभावो वेगानां च प्रवर्तनं भवति| तथा, बस्तिहृदयादिषु कोष्ठाङ्गेष्वतिरुङ्न भवति| यथाऽन्तरे तथाऽवकाशस्य गुल्मप्रदेशस्य वैवर्ण्यं-शरीरादन्यवर्णत्वम्| बहिः-बाह्यभागे, उन्नतत्वमधिकं भवति|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः