Bahya-abhyantara vidradi lakshana: A.Hridaya

Sloka

बाह्योऽत्र तत्रतत्राङ्गे दारुणो ग्रथितोन्नतः|
आन्तरो दारुणतरो गम्भीरो गुल्मवद्धनः||४||
वल्मीकवत्समुच्छ्रायी शीघ्रघात्यग्निशस्त्रवत्|

सर्वाङ्गसुन्दरी व्याख्या

अत्र-अनयोर्बाह्याभ्यन्तरभेदभिन्नयोर्विद्रध्योर्मध्यात्, बाह्यो विद्रधिस्तत्रतत्र-नाभ्यादावङ्गे, जायते| तथा, दारुणो ग्रथितोन्नतः| ग्रथित इव ग्रथितः| उन्नतः-उत्तुण्डितः| शोफस्य स्वभावोन्नतत्वादुन्नतग्रहणमतिशयार्थम्| आन्तरो दारुणतरः तथा, गम्भीरः-अन्तर्निगूढः| तथा, गुल्मवद्धनो-गुल्मेन तुल्यः| तथा, समुच्छ्रायी-उन्नतो वल्मीकशिखरवत्| तथा, शीघ्रघाती-बाह्यविद्रधितः शीघ्रव्यापादकः| अग्निशस्त्रवत्-अग्निशस्त्राभ्यां तुल्यः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः