Dvidoshaja gulma lakshana: A.Hridaya

Sloka

स्वदोषस्थानधामानः स्वे स्वे काले च रुक्कराः||४७||
प्रायः---------------------------|

सर्वाङ्गसुन्दरी व्याख्या

ते च गुल्माः स्वदोषस्थानधामानो दोषस्य-वातादेः, स्थानं-पक्वाशयादि स्वमात्मीयमात्मीयं, दोषस्थानं तद्धाम-स्थानं, येषां-वातपित्तकफगुल्मानां, ते प्रायो-बाहुल्येन, स्वदोषस्थानधामानः| तथा स्वे स्वे काले-आत्मीये वयोहोरात्रिभुक्तानामन्तमध्यादिलक्षणे, यथासङ्ख्यं वातपित्तकफगुल्माक्कराः-शूलकराः, भवन्ति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः