Garbha lakshana and Rakthaja gulma: A.Hridaya

Sloka

न चाङ्गैर्गर्भवद्गुल्मः स्फुरत्यपि तु शूलवान्||५४||
पिण्डीभूतः स एवास्याः कदाचित्स्पन्दते चिरात्|
न चास्या वर्द्धते कुक्षिगुल्म एव तु वर्द्धते||५५||

सर्वाङ्गसुन्दरी व्याख्या

न च गर्भ इवाङ्गैः-पाण्यादिभिरवयवैः, स्फुरति-निःस्पन्दते गुल्मोऽङ्गाभावात्, अपि तु शूलवान्| स एव-गुल्मः, पिण्डीभूतः कदाचिच्चिरेणास्याः स्पन्दते-न गर्भवच्छीघ्रम्| तथा, गर्भेऽन्तःस्थिते कुक्षिरस्या वर्धते| गुल्मे त्वन्तःस्थिते स एव वर्धते गुल्मो, न कुक्षिः| इति गर्भरक्तगुल्मयोर्लक्षणभेदः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः