Gulma lakshana and types: A.Hridaya
Sloka
रूक्षकृष्णारुणसिरातन्तुजालगवाक्षितः|
गुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः||३२||
आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः|
गुल्मोऽष्टधा पृथग्दोषैः संसृष्टैर्निचयं गतैः||३२||
आर्तवस्य च दोषेण नारीणां जायतेऽष्टमः|
सर्वाङ्गसुन्दरी व्याख्या
सर्वगुल्मानां सामान्यलक्षणं रूक्षकृष्णेत्यादिग्रन्थनिर्दिष्टम्| गवाक्षितो-निरन्तरमाक्रान्तः| गुल्मोऽष्टधेति सङ्ख्यारूपा सम्प्राप्तिः| तदेवाष्टधात्वं प्रतिपादयितुमाह-पृथग्दोषैः-वातपित्तकफैः, त्रयः| तथा, संसृष्टैः-संसर्गेण, त्रयः| निचयं गतैः-सन्निपातेन, एकः| तथा, अष्टमो नारीणां चार्तवस्य दोषेण-दुष्टतया, स्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः