Gulma nidana and samprapti: A.Hridaya
Sloka
ज्वरच्छर्द्यतिसाराद्यैर्वमनाद्यैश्च कर्मभिः||३३||
कर्शितो वातलान्यत्ति शीतं वाऽम्बु बुभुक्षितः|
यः पिबत्यनु चान्नानि लङ्घनप्लवनादिकम्||३४||
सेवते देहसङ्क्षोभि छर्दिं वा समुदीरयेत्|
अनुदीर्णामुदीर्णान्वा वातादीन्न विमुञ्चति||३५||
स्नेहस्वेदावनभ्यस्य शोधनं वा निषेवते|
शुद्धो वाऽऽशुविदाहीनि भजते स्यन्दनानि वा||३६||
वातोल्बणास्तस्य मलाः पृथक् क्रुद्धा द्विशोऽथवा|
सर्वे वा रक्तयुक्ता वा महास्रोतोनुशायिनः||३७||
ऊर्ध्वाधोमार्गमावृत्य कुर्वते शूलपूर्वकम्|
स्पर्शोपलभ्यं गुल्माख्यमुत्प्लुतं ग्रन्थिरूपिणम्||३८||
कर्शितो वातलान्यत्ति शीतं वाऽम्बु बुभुक्षितः|
यः पिबत्यनु चान्नानि लङ्घनप्लवनादिकम्||३४||
सेवते देहसङ्क्षोभि छर्दिं वा समुदीरयेत्|
अनुदीर्णामुदीर्णान्वा वातादीन्न विमुञ्चति||३५||
स्नेहस्वेदावनभ्यस्य शोधनं वा निषेवते|
शुद्धो वाऽऽशुविदाहीनि भजते स्यन्दनानि वा||३६||
वातोल्बणास्तस्य मलाः पृथक् क्रुद्धा द्विशोऽथवा|
सर्वे वा रक्तयुक्ता वा महास्रोतोनुशायिनः||३७||
ऊर्ध्वाधोमार्गमावृत्य कुर्वते शूलपूर्वकम्|
स्पर्शोपलभ्यं गुल्माख्यमुत्प्लुतं ग्रन्थिरूपिणम्||३८||
सर्वाङ्गसुन्दरी व्याख्या
"ज्वरच्छर्दि" इत्यादि यावत् "भजते स्यन्दनानि वा" इति निदानम्| अतिसाराद्यैरित्यादिशब्देन ग्रहण्यादयो गृह्यन्ते, वमनाद्यैरित्यत्र च विरेचनास्थापनादयः| ज्वरादिभिर्व्याधिभिर्वमनादिभिश्च कर्शितो यो वातलान्यन्नानि भुङ्क्ते| अथवा, बुभुक्षितो-भोजनं विनैव, शीतं-अपक्वमम्बु, यः पिबति| तथा चोक्तम् (सङ्ग्रहे सू. अ. ६)- "अनवस्थितदोषाग्नेर्व्याधिक्षीणबलस्य च| नाल्पमप्याममुदकं हितं, तद्धि त्रिदोषकृत्||" इति| अनु चान्नानि-भोजनादनन्तरं, लङ्घनादिकं यत्कर्म देहसङ्क्षोभि-शरीरसंरम्भोत्पादकं, तत्सेवते| छर्दिं वा योऽनुदीर्णां-अनुत्क्लिष्टां, समुदीरयेत्-समन्तादूर्ध्वं नयेत्| उदीर्णान् वातादीन्-वातमूत्रपुरीषादीनागतान्, न विमुञ्चति| तथा यः कश्चन स्नेहस्वेदावनभ्यस्य-पुनःपुनरकृत्वा, शोधनं-वमनविरेचनादि, निषेवते| अथवा, शुद्धः-कृतवमनविरेचनः, आशु-समनन्तरमेव, विदाहीन्यन्नपानानि भजते-सन्तापनान्यन्नपानानि भुङ्क्ते| पच्यमानान्यन्नपानानि यानि विदाहावस्थां प्राप्तान्यामाशय एव चिरमवतिष्ठन्ते तानि विदाहीन्युच्यन्ते| अथवा, कृतवमनविरेचनोऽनन्तरमेव स्यन्दनानि-स्रुतिरूपश्लेष्मकारीण्यन्नपानानि, भजते| तस्य मलाः-वातादयो, गुल्मसंज्ञं व्याधिं कुर्वते| कीदृशाः ? वातोल्बणाः-वातकारणाः| न हि पवनकारणमन्तरेण श्लेष्मपित्तरक्तानां संघट्टना घटते| तस्मात् पित्तादीनामुत्पत्तिकारणानां वातस्य च पित्तादिगुल्मेषु गुल्मनिष्पादनं प्रति तुल्यकक्षतामनेन विशेषणेन प्रतिपादयत्याचार्यः| यदि पुनरुल्बणः-अधिकः, इति व्याख्यायते| तदानीं पित्तगुल्मेऽप्यधिकत्वं वातस्येति वातगुल्मपित्तगुल्मादीनां विषयविभागो न स्यात्| तस्माद्वातकारणत्वं वातोल्बणा इत्यनेन विवक्षितमिति वेद्यम्| किम्भूता दोषाः ? क्रुद्धाः-कुपिताः| कथम् ? पृथक्-प्रत्येकं कृत्वा| अथवा, द्विशो-द्वौ द्वौ कृत्वा, संसर्गस्था इत्यर्थः| सर्वे वा-समस्ता रक्तयुक्ता वेति| वाशब्दः समुच्चये, रक्तयुक्ताश्चेत्यर्थः| तथा च खरनादेऽभिहितम्-"वायुः, क्रुद्धः कफं रक्तं पित्तं चादाय पिण्डितम्| गुल्मं कुर्यात्" इत्यादि यावत् "रक्तपित्तकफा वातपिण्डिता गुल्म उच्यते|" इति| तथा महास्रोतोनुशायिनः| महास्रोतः-आमपक्वाशयस्थानं, तदनुशेरते ये ते महास्रोतोनुशायिनः| किं कृत्वा गुल्मं निष्पादयन्ति ? इत्याह-ऊर्ध्वाध इत्यादि| ऊर्ध्वाधोमार्गमावृत्य-आपूर्य, अनेनास्य सम्प्राप्तिरुक्ता| शूलं पूर्वं यस्मिन् स एवं तं शूलपूर्वकम्,-पूर्वं शूलं कृत्वा पश्चाद्दोषा गुल्मं कुर्वन्ति, अनेनास्य प्राग्रूपमुक्तम्| तथा स्पर्शोपलभ्यं-अश्मादिसदृशम्, तथा उत्प्लुतं-ऊर्ध्वं गतम्| तथा ग्रन्थिरूपिणं-ग्रन्थ्याकारम्, इत्यनेनास्य संस्थानमुक्तम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः