Gulma utpatti: A.Hridaya
Sloka
कर्शनात्कफविट्पित्तैर्मार्गस्यावरणेन वा|
वायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः||३९||
स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये|
पिण्डितत्वादमूर्तोऽपि मूर्तत्वमिव संश्रितः||४०||
गुल्म इत्युच्यते बस्तिनाभिहृत्पार्श्वसंश्रयः|
वायुः कृताश्रयः कोष्ठे रौक्ष्यात्काठिन्यमागतः||३९||
स्वतन्त्रः स्वाश्रये दुष्टः परतन्त्रः पराश्रये|
पिण्डितत्वादमूर्तोऽपि मूर्तत्वमिव संश्रितः||४०||
गुल्म इत्युच्यते बस्तिनाभिहृत्पार्श्वसंश्रयः|
सर्वाङ्गसुन्दरी व्याख्या
कर्शनात्-धातुक्षयात्, वायुर्दुष्टः कदाचित् कफविट्पित्तैः कृतेन मार्गस्यावरणेन-रोधेन, कोष्ठे-आमपक्वाशयाख्ये, कृताश्रयो-गृहीतास्पदः, तथा रौक्ष्यात्कारणात् काठिन्यमागतः-पिण्डितत्वं प्राप्तः, स्वाश्रये-पक्वाशयस्थाने, दुष्टः स्वतन्त्रः, पराश्रये-आमाशयस्थाने, दुष्टः परतन्त्रः पित्तकफयोरायत्तः, पिण्डितत्वात्कारणात् स्पर्शोपलभ्यः सन्, अमूर्तोऽपि-अकठिनोऽपि, मूर्तत्वमिव-काठिन्यमिव, संश्रितः-सम्पन्नो, गुल्म इत्यभिधीयते, तन्त्रकृद्भिरिति शेषः| बस्तिनाभिहृत्पार्श्वसंश्रयः, बस्त्यादिः संश्रयः-आधारो, यस्य स एवम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः