Gulma - Vidradhi difference: A.Hridaya

Sloka

स्वदोषसंश्रयो गुल्मः सर्वो भवति तेन सः|
पाकं चिरेण भजते नैव वा, विद्रधिः पुनः||५६||
पच्यते शीघ्रमत्यर्थं दुष्टरक्ताश्रयत्वतः|
अतः शीघ्रविदाहित्वाद्विद्रधिः सोऽभिधीयते||५७||

सर्वाङ्गसुन्दरी व्याख्या

सर्वो गुल्मः स्वदोषः संश्रयो यस्य स एवम्| येन येन दोषेण वाताद्यन्यतमेनाथवा द्वन्द्वस्वरूपेण सन्निपातेनान्येन वा गुल्मो जायते स दोषस्तस्य गुल्मस्याश्रयः| तदेवं वातगुल्मस्य वात एवाश्रयो, न तस्य पित्तादयः| पित्तादिकृतानां त एवाश्रयाः, न पवन आश्रयः| एवं स्वदोषसंश्रयो गुल्मः सर्वो भवति| तेन-स्वदोषसंश्रयाख्येन कारणेन, गुल्मश्चिरेण कालेन पाकं भजते| एतच्च पित्तगुल्मं प्रति प्रायेण तथैकीयमतेनोक्तम्| अत एवाह-नैव वेति| अथवा गुल्मः पाकं न भजत एव| विद्रधिस्तु शीघ्रं-अचिरेणैव कालेन, पाकं भजते, अत्यर्थं दुष्टरक्ताश्रयत्वात्| अतः शीघ्रविदाहित्वात् कारणादसौ विद्रधिरभिधीयते| तथा चागमः (सुश्रुते नि. अ. ९|३२)- "मांसशोणिभूयस्त्वात् पाकं गच्छति विद्रधिः| मांसशोणितहीनत्वाद्गुल्मः पाकं न गच्छति||" इति| तथा प्रायेण वातात्मकः सर्वो गुल्मो जायते| वात एवामूर्तोऽपि मूर्तत्वमिव संश्रितो गुल्म इत्युच्यते| अत एव वातस्यैव सर्वगुल्मेकारणं प्रति प्राधान्यम्| तस्माद्गुल्मस्य पाकानुपपत्तिः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः