Kshataja vidradi lakshana: A.Hridaya

Sloka

शस्त्राद्यैरभिघातेन क्षते वाऽपथ्यकारिणः|
क्षतोष्मा वायुविक्षिप्तः सरक्तं पित्तमीरयन्||११||
पित्तासृग्लक्षणं कुर्याद्विद्रधिं भूर्युपद्रवम्|

सर्वाङ्गसुन्दरी व्याख्या

शस्त्रलोष्टाद्यैर्योऽभिघातस्तेन हेतुना यः क्षतोष्मा, अथवाऽभिघातमन्तरेणापि व्रणाद्युद्भवात् क्षते जाते सत्यपथ्यकारिणः पुंसो यः क्षतोष्मा-अग्निः, स वायुना विक्षिप्तः पित्तमीरयन्-कोपयन्| किम्भूतं पित्तम् ? सरक्तम्| तथा, पित्तासृग्भ्यामुत्पन्नयोर्विद्रध्योर्यल्लक्षणं तत्समानलक्षणं विद्रधिं कुर्यात्| तथा, भूर्युपद्रवम्| इयानेव चास्य विशेषः, पित्तासृग्विद्रध्योः सकाशात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः