Mutraja vriddhi lakshana: A.Hridaya
Sloka
मूत्रधारणशीलस्य मूत्रजः स तु गच्छतः||२६||
अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुः|
मूत्रकृच्छ्रमधस्ताच्च वलयं फलकोशयोः||२७||
अम्भोभिः पूर्णदृतिवत्क्षोभं याति सरुङ्मृदुः|
मूत्रकृच्छ्रमधस्ताच्च वलयं फलकोशयोः||२७||
सर्वाङ्गसुन्दरी व्याख्या
मूत्रजो वृद्धिर्मूत्रधारणशीलस्य जलपूर्णभस्त्रेव स्यात्| स तु-मूत्रजो वृद्धिः, गच्छतो-व्रजतः, क्षोभं याति सरुक् मृदुश्च स्यात्| तथा, मूत्रकृच्छ्रं स्यात्| फलकोशयोरधस्ताच्च वलयं-कटकं, स्यात्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः