Pittaja gulma lakshana: A.Hridaya
Sloka
पित्ताद्दाहोऽम्लको मूर्च्छाविड्भेदस्वेदतृडूज्वराः||४४||
हारिद्रत्वं त्वगाद्येषु गुल्मश्च स्पर्शनासहः|
दूयते दीप्यते सोष्मा स्वस्थानं दहतीव च||४५||
हारिद्रत्वं त्वगाद्येषु गुल्मश्च स्पर्शनासहः|
दूयते दीप्यते सोष्मा स्वस्थानं दहतीव च||४५||
सर्वाङ्गसुन्दरी व्याख्या
पित्ताद्गुल्मे दाहादयः स्युः| तथा त्वङ्नखादिषु हारिद्रो वर्णः स्यात्| गुल्मश्च स्पर्शनं न सहते-स्पर्शनासहः, स्यात्| तथा, दूयते-उपतप्यते, दीप्यते-ज्वलतीव| सोष्मा च स्यात्| स च स्वस्थानं-गुल्माश्रितमास्पदं, दहतीव-तप्तायःपिण्ड इव| दूयत इति "दूड् परितापे" दिवादिः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः