Rakthaja gulma lakshana: A.Hridaya
Sloka
-----------रक्तगुल्मस्तु स्त्रिया एव प्रजायते|
ऋतौ वा नवसूता वा यदि वा योनिरोगिणी||४९||
सेवते वातलानि स्त्री क्रुद्धस्तस्याः समीरणः|
निरुणद्ध्यार्तवं योन्यां प्रतिमासमवस्थितम्||५०||
कुक्षिं करोति तद्गर्भलिङ्गमाविष्करोति च|
हृल्लासदौहृदस्तन्यदर्शनक्षामतादिकम्||५१||
क्रमेण वायुसंसर्गात्पित्तयोनितया च तत्|
शोणितं कुरुते तस्या वातपित्तोत्थुगुल्मजान्||५२||
रुक्स्तम्भदाहातीसारतृड्ज्वरादीनुपद्रवान्|
गर्भाशये च सुतरां शूलं दुष्टासृगाश्रये||५३||
योन्याश्च स्रावदौर्गन्ध्यतोदस्पन्दनवेदनाः|

सर्वाङ्गसुन्दरी व्याख्या
रक्तगुल्मः पुनः स्त्रिया एव प्रजायते| ऋतौ-आर्तवकाले, नवप्रसूता वा योनिरोगिणी वा स्त्री वातलान्यन्नपानानि यदि सेवते तस्याः-स्त्रियाः समीरणः-पवनः, कुपितो योन्यां प्रतिमासं यदवस्थितमार्तवं तदुपरुणद्धि| तत्-आर्तवं, कुक्षिं करोति, गर्भलिङ्गं चाविष्करोति-प्रकटयति| गर्भलिङ्गमिव लिङ्गं यस्येति "सप्तम्युपमानपूर्वस्य" इति बहुब्रीहिरुत्तरपदलोपश्च| अथ तदेव गर्भलिङ्गमाह-हृल्लासेत्यादि| मुनिस्तु रक्तगुल्मे (च. नि. अ. ३|१४)- "पादयोः श्वयथुर्भवति|" इत्यूचे| आदिशब्देन मूर्च्छादीनां ग्रहणम्| क्रमेण-अनन्तरं, वायुसंसर्गात्-मरुत्संश्लेषात्, तथा पित्तयोनितया च-पित्तस्य कारणत्वेन, तच्छोणितं वातपित्तोत्थगुल्मजानुपद्रवान् कुरुते रुक्स्तम्भदाहातीसारतृड्ज्वरादीन्| अनया च भङ्ग्या वातपित्तगुल्मयोरुपद्रवा अप्युक्ता भवन्ति| गर्भाशय इत्यादि| गुल्मश्च गर्भाशये सुतरां शूलं करोति| किम्भूते ? दुष्टस्यासृज आश्रये-आधारभूते| योन्याश्च स्रावादीन् कुरुते|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः