Rakthaja vidradi lakshana: A.Hridaya
Sloka
सामर्थ्याच्चात्र विभजेद्बाह्याभ्यन्तरलक्षणम्||९||
कृष्णस्फोटावृतः श्यावस्तीव्रदाहरुजाज्वरः|
पित्तलिङ्गोऽसृजा बाह्यः स्त्रीणामेव तथाऽऽन्तरः||१०||

सर्वाङ्गसुन्दरी व्याख्या
अत्र-विद्रधौ, पूर्वोक्ताद्दारुणाद्दा(णदा)रुणतरत्वादिलक्षणात्-सामर्थ्यात्, बाह्याभ्यन्तरलक्षणं विभजेत्-बाह्यस्य विद्रधेस्तथाऽऽभ्यन्तरस्य च लक्षणं वदेत्|
स०-रक्तेन विद्रधिः कृष्णस्फोटैरावृतः-चितो, यावत्तीव्रदाहरुजाज्वरः| तथा पित्तलिङ्गो-"रक्तताम्रासितः" (श्लो. ७) इत्यादिलक्षणः स च बाह्यो-बाह्य एव नान्तरो नराणाम्, वस्तुस्वाभाव्यात्| आन्तरो यो विद्रधिरसृजा जायते, स स्त्रीणामेव-न नराणाम्, वस्तुस्वाभाव्यात्|

Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः