Rakthaja vriddhi lakshana: A.Hridaya
Sloka
कृष्णस्फोटावृतः पित्तवृद्धिलिङ्गश्च रक्ततः||२५||
सर्वाङ्गसुन्दरी व्याख्या
रक्ताद्वृद्धिः कृष्णस्फोटैश्चितः पित्तवृद्धिलिङ्गश्च| पित्तवृद्धिलिङ्गानीव लिङ्गानि यस्य स एवम्| सप्तम्युपमानपूर्वस्येत्यादिनोत्तरपदलोपी समासः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः