Vidradi upadravas: A.Hridaya

Sloka

तेषूपद्रवभेदश्च स्मृतोऽधिष्ठानभेदतः||१२||
नाभ्यां हिध्मा, भवेद्बस्तौ मूत्रं कृच्छ्रेण पूति च|
श्वासो यकृति, रोधस्तु प्लीह्न्युच्छ्वासस्य, तृट् पुनः||१३||
गलग्रहश्च क्लोम्नि, स्यात्सर्वाङ्गप्रग्रहो हृदि|
प्रमोहस्तमकः कासो हृदये घट्टनं व्यथा||१४||
कुक्षिपार्श्वान्तरांसार्तिः कुक्षावाटोपजन्म च|
सक्थ्नोर्ग्रहो वङ्क्षणयोर्वृक्कयोः कटिपृष्ठयोः||१५||
पार्श्वयोश्च व्यथा पायौ पवनस्य निरोधनम्|

सर्वाङ्गसुन्दरी व्याख्या

तेषु-विद्रधिषु, उपद्रवविशेषोऽधिष्ठानविशेषाद्भवति|  नाभ्यां जाते विद्रधौ हिध्मा विशेषेण भवेत्| बस्तौ जाते मूत्रं पूति कृच्छ्रेण च भवेत्| यकृति जाते श्वासः स्यात्| प्लीह्नि जात उच्छ्वासस्य रोधः| क्लोम्नि जाते गलग्रह इव गलग्रहो व्याधिविशेषः स्यात्तृष्णा च| हृदि जाते सर्वस्याङ्गस्य प्रकर्षेण ग्रहः स्यात्| तथा, प्रमोहादयः स्युः| तमकः-श्वासविशेषः| हृदये घट्टनं व्यथा च| कुक्षौ जाते सति कुक्षिपार्श्वयोरन्तरेंऽसयोश्च पीडा भवति, तथा कुक्षावाटोपसम्भवः| वङ्क्षणयोर्जाते सक्थ्नोर्ग्रहो निश्चल इव सक्थिनी जायेते| वृक्कयोर्जाते कट्याः पृष्ठस्य च ग्रहः, पीडा च पार्श्वयोः स्यात्| पायौ-गुदे जाते, पवनस्य-अपानाख्यस्य वायोः, निरोधः स्यात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः