Sthana vidradi lakshana: A.Hridaya

Sloka

एवमेव स्तनसिरा विवृताः प्राप्य योषिताम्||१९||
सूतानां गर्भिणीनां वा सम्भवेच्छ्वयथुर्घनः|
स्तने सदुग्धेऽदुग्धे वा बाह्यविद्रधिलक्षणः||२०||
नाडीनां सूक्ष्मवक्त्रत्वात्कन्यानां न स जायते|

सर्वाङ्गसुन्दरी व्याख्या

[ एवमेव- ] यथैव विद्रध्याख्यः श्वयथुविशेषो भुक्तैः पर्युषितादिभिस्तैस्तैश्चासृक्प्रदूषणैर्दुष्टत्वङ्मांसमेदोस्थिस्नाय्वसृक्कण्डराश्रयः, तथैव सूतानां गर्भिणीनां वा स्त्रीणां स्तने सदुग्धेऽथवाऽदुग्धे स्तनसिरा विवृताः प्राप्य-आक्रम्य, बाह्यविद्रधिलक्षणः-"बाह्योऽत्र तत्रतत्राङ्गे" (श्लो. ४) इत्यादिलक्षणो घनो-निबिडो, यः श्वयथुः सम्भवेत् स स्तनविद्रधिसंज्ञः| नाडीनां-स्तनसिराणां, सूक्ष्मवक्त्रत्वात् स कन्यानां न जायते|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः