Tuni - Pratuni lakshana: A.Hridaya

Sloka

पक्वाशयाद्गुदोपस्थं वायुस्तीव्ररुजः प्रयान्|
तूनी, प्रतूनी तु भवेत्स एवातो विपर्यये||६२||

सर्वाङ्गसुन्दरी व्याख्या

गुदं चोपस्थं च गुदोपस्थम्| पक्वाशयात्-ततो देशात्, वायुस्तीव्ररुजः सन् गुदोपस्थं प्रयान्-गच्छन्, तूनीत्युच्यते| स एव-वायुः, अतो विपर्यये-गुदोपस्थात्पक्वाशयं गच्छन्, तीव्ररुजः सन् प्रतूनीति गद्यते|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः