Vataja gulma lakshana: A.Hridaya

Sloka

वातान्मन्याशिरःशूलं ज्वरप्लीहान्त्रकूजनम्||४१||
व्यधः सूच्येव विट्सङ्गः कृच्छ्रादुच्छ्वसनं मुहुः|
स्तम्भो गात्रे मुखे शोषः कार्श्यं विषमवह्निता||४२||
रूक्षकृष्णत्वगादित्वं चलत्वादनिलस्य च|
अनिरूपितसंस्थानस्थानवृद्धिक्षयव्यथः||४३||
पिपीलिकाव्याप्त इव गुल्मः स्फुरति तुद्यते|

सर्वाङ्गसुन्दरी व्याख्या

वाताद्गुल्मे सति मन्याशूलादयो भवन्ति| तथा, चलत्वाच्च वायोर्गुल्मोऽनिरूपितसंस्थानस्थानवृद्धिक्षयव्यथः स्यात्| अनिरूपिताः संस्थानादयो यस्य स एवम्| संस्थानं-आकारः| स्थानं-आश्रयः| तथा, पिपीलिकाभिर्व्याप्तः-चित इव, गुल्मः स्फुरति तुद्यते च| तुद्यत इति कर्मकर्तरि|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः