Vataja vriddhi lakshana: A.Hridaya
Sloka
वातपूर्णदृतिस्पर्शो रूक्षो वातादहेतुरुक्|
सर्वाङ्गसुन्दरी व्याख्या
तत्र वाताद्वृद्धिर्वातेन पूरिता या दृतिः-भस्रा, तस्या इव स्पर्शो यस्य स एवंभूतो भवति| तथा, रूक्षः| तथा, अहेतुः-निमित्तं विना, रुक्-पीडा, यस्मिन् स एवम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः