Vidradi nidana: A.Hridaya
Sloka
भुक्तैः पर्युषितात्युष्णरूक्षशुष्कविदाहिभिः|
जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः||१||
दुष्टत्वङ्मांसमेदोस्थिस्नाय्वसृक्कण्डराश्रयः|
यः शोफो बहिरन्तर्वा महामूलो महारुजः||२||
जिह्मशय्याविचेष्टाभिस्तैस्तैश्चासृक्प्रदूषणैः||१||
दुष्टत्वङ्मांसमेदोस्थिस्नाय्वसृक्कण्डराश्रयः|
यः शोफो बहिरन्तर्वा महामूलो महारुजः||२||
सर्वाङ्गसुन्दरी व्याख्या
पर्युषितादिभिर्भुक्तैः, तथा जिह्मशय्याविचेष्टाभिः, विविधाश्चेष्टा विचेष्टाः, शय्या च विचेष्टाश्च शय्याविचेष्टाः, जिह्माश्च ताः शय्याविचेष्टाश्च, ताभिः| जिह्माः कुटिला वक्रा इति पर्यायाः| तथा तैस्तैः-तत्रतत्रासृक्प्रदूषणैश्च निर्दिष्टैः, यः शोफो जायते दुष्टत्वगाद्याश्रयो बहिः-बहिर्भागे, अन्तः-अन्तर्भागे वा, स शीघ्रविदाहित्वाच्छोफः षोढा-षट्प्रकारो, विद्रधिः स्मृतः-अभिहितः| शोफशब्दः पृषोदरादित्वात्साधुः| त्वक् च मांसं च मेदश्च अस्थि च स्नायुश्चासृक् च कण्डरा च, ता एवम्| "सुमहान् स्नायुसङ्घातः कण्डरेत्यभिधीयते|" दुष्टाः-दोषैर्दूषिताः, त्वङ्मांसादय आधारो यस्य स दुष्टत्वङ्मांसमेदोस्थिस्नाय्वसृक्कण्डराश्रयः| तथा, महमूलस्तथा महारुजः, अनेनास्य दुरुपक्रमत्वमुक्तम्| तथा, वृत्तः स्यात्, अथवा आयतो-न वर्तुलः, इत्यनेनास्य संस्थानमुक्तम्|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः