Vidradi sadhyasadhyata: A.Hridaya
Sloka
--------------तत्र विवर्ज्यः सन्निपातजः|
पक्वो हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा||१८||
पक्वश्चान्तः स्रवन् वक्क्रात् क्षीणस्योपद्रवान्वितः|
पक्वो हृन्नाभिबस्तिस्थो भिन्नोऽन्तर्बहिरेव वा||१८||
पक्वश्चान्तः स्रवन् वक्क्रात् क्षीणस्योपद्रवान्वितः|
सर्वाङ्गसुन्दरी व्याख्या
सन्निपातजो यो विद्रधिः स विवर्ज्योऽसाध्यत्वात्| तथा, पक्वोऽन्तर्बहिरेव वा भिन्नोऽन्तः-अन्तर्भिन्नो, बाह्यो-बहिर्भिन्नो, हृन्नाभिबस्तिस्थो वर्ज्य एव| पक्वश्चान्तरो हृदादिभ्योऽन्यत्रापि जातो वक्त्रेण स्रवन् क्षीणस्योपद्रवैः-हिध्मादिभिः, युक्तो वर्ज्य एव|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः