Vidradi srava lakshana: A.Hridaya

Sloka

नाभेरूर्ध्वं मुखात्पक्वाः प्रस्रवन्त्यधरे गुदात्|
गुदास्यान्नाभिजो--------------------|१७|

सर्वाङ्गसुन्दरी व्याख्या

नाभेरूर्ध्वं-ऊर्ध्वप्रदेशेषूत्पन्नाः, पक्वाः सन्तो मुखात्-आस्यात्, स्रावं स्रवन्ति| नाभेरधरे-अधस्तात्, पक्वाः सन्तो गुदात् स्रावं स्रवन्ति| नाभिजः पुनर्विद्रधिरुत्पन्नो गुदास्यात्-उभयतः, स्रावं स्रवति| गुदं चास्यं च गुदास्यम्, तस्मात्|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः