Vidradi types: A.Hridaya

Sloka

वृत्तः स्यादायतो यो वा स्मृतः षोढा स विद्रधिः|
दोषैः पृथक्समुदितैः शोणितेन क्षतेन च||३||

सर्वाङ्गसुन्दरी व्याख्या

पृथग्दोषैः-वातपित्तकफैस्त्रयः, समुदितैः-सन्निपातेन चैकः, तथा शोणितेन-दोषाधिष्ठितेन, क्षतेन-शस्त्रादिघातादिना, चेति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः