Vrana lakshana-vidradi: A.Hridaya

Sloka

--------विद्याद्दोषं क्लेदाच्च विद्रधौ||१७||
यथास्वं व्रणवत्-------------------|

सर्वाङ्गसुन्दरी व्याख्या

विद्रधौ व्रण इव यथास्वं वातादिदोषं क्लेदाद्विद्यात्| व्रणप्रतिषेधोक्तया रीत्या (हृ. उ. अ. २५|६) मस्तुमांसपुलाकाम्बुतुल्यतन्वल्पसंस्रत्यादिकया वातिकं विद्रधिं विद्यात्| मूत्रकिंशुकभस्माम्बुतैलाम्भोष्णबहुस्रुतेत्यादिकया च पैत्तिकं विद्रधिं विद्यात्| बहुश्वेतघनस्रुत्यादिकया च कफजं विद्रधिं विद्यात्| चशब्दान्न केवलं पूर्वोक्तात् "वातात्तत्रातितीव्ररुक्" (श्लो. ६) इत्यादेर्वातादिलक्षणाद्वातादिदोषविद्रधिं जानीयत्, क्लेदाच्चेत्यर्थः| व्रणवदिति सप्तम्यन्ताद्वतिः, विद्रधाविति सप्तम्यन्तनिर्देशात्| तथा चोक्तं भाष्ये-"उपमाने यः संशयः स उपमेयाद्ब्यावर्तते|" इति|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः