Vriddhi samprapthi: A.Hridaya

Sloka

कृद्धो रुद्धगतिर्वायुः शोफशूलकरश्चरन्||२१||
मुष्कौ वङ्क्षणतः प्राप्य फलकोशाभिवाहिनीः|
प्रपीड्य धमनीर्वृद्धिं करोति फलकोशयोः||२२||

सर्वाङ्गसुन्दरी व्याख्या

वायुः प्रकुपितो वृद्धिं करोति| किं धातुक्षयात् कुपितः ? नेत्याह-रुद्धगतिः| रुद्धा गतिर्यस्येति रुद्धगतिः, आवृतमार्ग इत्यर्थः| किम्भूतः ? शोफशूलकरः| तथा, चरन्-देशाद्देशान्तरं गच्छन्| वङ्क्षणतः-ततो देशात्, मुष्कौ-वृषणौ, यथा प्राप्य तथा फलकोशाभिवाहिनीः सिराः प्रकर्षेण पीडयित्वा| कस्य वृद्धिं करोति ? इत्याह-फलकोशयोः,-वृषणयोः|

Reference

अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः