Vriddhi types: A.Hridaya
Sloka
दोषास्रमेदोमूत्रान्त्रैः स वृद्धिः सप्तधा गदः|
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्||२३||
मूत्रान्त्रजावप्यनिलाद्धेतुभेदस्तु केवलम्||२३||
सर्वाङ्गसुन्दरी व्याख्या
पृथग्वातपित्तकफैर्दोषैस्तथाऽस्रेण मेदसा मूत्रेण च तथाऽऽन्त्रेण च, एवं दोषास्रमेदोमूत्रान्त्रैः स वृद्ध्याख्यो गदः सप्तधा-सप्तप्रकारो, मतः| न केवलं [ वात ] वृद्धाख्यो यो गदः स एवानिलजो यावन्मूत्रान्त्रजावपि यौ वृद्ध्याख्यौ गदौ तावप्यनिलजौ| ननु, एवं पृथङ्निर्देशो मूत्रान्त्रजयोः कर्तुं न युक्तोऽनिलजत्वात्, इत्याह-हेतुभेदस्तु केवलम्| सत्यम्| मूत्रान्त्रजावप्यनिलाज्जायेते| किन्तु कारणभेदान्मूत्रान्त्रजाविति निर्दिष्टौ| यतो मूत्रान्त्रेऽधिष्ठाय वायुर्मूत्रान्त्रजौ गदौ वृद्ध्याख्यौ करोति| एवं तौ परमार्थतो वातजावपि मूत्रान्त्रजावुच्यते, तथारूपाद्धेतुभूतादुत्पन्नत्वात्| एतच्चोपलक्षणमात्रम्| मेदोरक्तजावपि वृद्धिगदौ दोषजावेव, कफपित्ताभ्यां दूष्यसंज्ञके मेदोरक्तेऽधिष्ठाय कृतत्वात्| तस्मान्मेदोरक्तहेतुवशान्मेदोरक्तजाविति संज्ञया तावुक्तौ| एवमन्येऽप्येवंरूपा व्याधयो बोध्याः|
Reference
अष्टाङ्गहृदयम् निदानस्थानम् - ११. विद्रधिवृद्धिगुल्मनिदानाध्यायः